பக்கம்:Ashwalayana gruhya sutra bhashyam.pdf/151

இப்பக்கம் மெய்ப்பு பார்க்கப்படவில்லை

________________

११२ . आश्वलायनगृह्यसूत्रभाष्यम् भिक्षां भवान् ददातु । अनुप्रवचनीयमिति वेत्ययं भिक्षां याचते । अनुप्रवचनीयोपदेशाद् गम्यते अनुप्रवचनीयार्थमिदं भिक्षायाचनमिति । अथ सायं प्रातः कथं भिक्षेतेति । भवत्पूर्वामिति । एवं स्मृतिप्रामाण्यात् । इदं तु भिक्षायाचनं सर्वेषां वर्णानां भवति । कस्मात् । अविशेषात् । यदा तु स्त्री याच्यते तदा भिक्षां भवती ददातु, अनुप्रवचनीयं भवती ददात्विति वा ।। ८ ।। तदाचार्याय वेदयित्वा तिष्ठेदहःशेषम् ॥ ६ ॥ तदनुप्रवचनीयार्थमाहृतमाचार्याय वेदयीत । निवेद्य तिष्ठेदहःशेषम् । शिष्टं यदहस्तावन्तं कालं स्थानं चोद्यते । आसनं न भवति ।। । अस्तमिते ब्रह्मौदनम् । अनुप्रवचनीयं श्रपयित्वाचार्याय - वेदयीत ॥१०॥ अस्तमित आदित्ये ब्रह्मौदनं श्रपयति । ब्रह्मण ओदनः ब्रह्मौदन तं अपयति । 'कः श्रपयति । ब्रह्मचारी । पाकयज्ञतन्त्रबिधानेन । अथवा ब्राह्मणानामायायमोदनः पच्यते । अनुप्रवचनीयमिति चास्य संज्ञा भवति । तच्छृतं स आचार्याय निवेदयति ब्रह्मचारी ॥ १० ।। आचार्यः समन्वारब्धे जुहुयात् 'सदसस्पतिमद्भुतम् । (ऋ० सं० १. १८. ६) इति ॥ ११ ॥ 1याचेतेति--B. 2 The passage found above (1. 19. 11) should belong to this place either in the sūtra or bhäsya. वेदयीत--B, D. 4 भिक्षामाहृताम् for आहृतम्--B. सत्-- A, C, D. वेदयीत--A,C, D.

"https://ta.wikisource.org/w/index.php?title=பக்கம்:Ashwalayana_gruhya_sutra_bhashyam.pdf/151&oldid=1341495" இலிருந்து மீள்விக்கப்பட்டது